________________
ऽध्यायः ] ब्राह्मण सुवर्णहरणे प्रायश्चित्तवर्णनम् । १५२३ ब्राह्मणसुवर्णहरणे प्रकीर्य केशान्राजानमभिधावेत्स्तेनोऽस्मि भोः शास्तु मां भवानिति ।
तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनाऽऽत्मानं प्रमापयेन्मरणात्पूतो भवतीतिविज्ञायते ||४५
निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदाहयेन्मरणात्पूतो भवतीति विज्ञायते ||४६ अथाप्युदाहरन्ति ||४७
पुराकालात्प्रमीतानां पापा (आनाकविधि) द्विविधकर्मणाम् । पुनरापन्नदेहानामङ्गं भवति तच्छृणु ॥४८
स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा ।
सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पग, इति ॥ ४६ पतितसंप्रयोगं च ब्राह्मण वा यौनेन वा यास्तेभ्यः
सकाशान्मात्रा उपलब्धास्तासां परित्यागस्तश्च न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥५०
अथाऽप्युदाहरन्ति ॥ ५१
शरीरपरितापेन तपसाऽध्ययनेन च ।
मुच्यते पापकृत्पापाद्दानाश्चापि प्रमुच्यते, इति विज्ञायते विज्ञायत इति ॥ ५२
इति वासिष्ठे धर्मशास्त्रे विंशोऽध्यायः ।
w
Th