SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १५२२ वसिष्ठस्मृतिः । तस्मात्पुंस्कृत्याऽऽजुह्वतीति भ्रूणहाऽग्निमुपसमाधाय जुहुयादेताः ॥२७ लोमानि मृत्युर्जुहोमि लोमभिर्मृत्युं वासय, इति प्रथमाम् ||२८ त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय, इति द्वितीयाम् ॥२६ लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासय, इति तृतीयाम् ॥ मांसं मृत्योर्जुहोमि मांसेन मृत्युं वासय, इति चतुर्थीम् ॥ ३१ नावानि मृत्योर्जुहोमि स्नावभिर्मृत्युं बासय, इति पञ्चमीम् ३२ मेदो मृत्योर्जुहोमि मेदसा मृत्युं वासय, इति षष्ठीम् ||३३ अस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वासय, इति सप्तमीम् ॥ मज्जानं मृत्योर्जुहोमि मज्जा (ज) भिमृत्युं वाशय, इत्यष्टमीमिति।। राजार्थे ब्राह्मणार्थे वा सङ्ग्रामेऽभिमुखमात्मानं घातयेत्त्रिरजितो वाऽपराद्धः पूतो भवतीति ॥ ३६ विज्ञायते हि ||३७ निरुक्तं ह्येनः कनोयो भवतीति ॥ ३८ अथाऽऽप्युदाहरन्ति ||३६ " पतितं पतितेत्युक्तत्वा चौरं चौरति वा पुनः । वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत् इति ॥४० एवं राजन्यं हत्वाऽष्टौ वर्षाणि चरेत्, षड्वैश्यं, त्रीणि शूद्रं, ब्राह्मणी चाssत्रेयीं हत्वा सवनगतौ च राजन्यवैश्यौ ॥४१ आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः ॥४२ अत्र ह्येष्यदपत्यं भवतीति ॥ ४३ अनात्रेयीं राजन्यहिंसायां राजन्यां वैश्यहिंसायां वैश्यां शूद्रहिंसायां शूद्रां हत्वा संवत्सरम् ॥४४ [ विंशो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy