________________
१५२०
वसिष्ठस्मृतिः।
[विंशो
॥ अथ बिंशोऽध्यायः॥
अथ प्रायश्चित्तप्रकरणवर्णनम् । अनभिसंधिकृते प्रायश्चित्तमपराधे ॥१ अभिसंधिकृतेऽप्येके ॥२ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः, इति ॥३ तत्र च सूर्याभ्युदितः सन्नहस्तिष्ठेत् ॥४ सावित्री च जपेत् ॥५ एवं सूर्याभिनिर्मुक्तो रात्रावासीत ॥६ कुनखी श्यावदन्तस्तु कृच्छद्वादशरात्रं चरेत् ॥७ परिवित्तिः कृच्छू द्वादशरात्रं चरित्वा निविशेत, तां चैवोपयच्छेत् ।।८ अथ परिविविदानः कृच्छातिकृच्छौ चरित्वा तस्मै दत्त्वा पुनर्निर्वि(वि)शेत, तामेवोपयच्छेत् ।। अग्रेदिधिषूपतिः कृच्छू द्वादशरात्रं चरित्वा निविशेततां चैवोपयच्छेत् ॥१० दिधिषूपतिः कृच्छातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत् (त)॥११ वीरहणं परस्ताद्वक्ष्यामः ॥१२ ब्रह्मघ्नः कच्छू द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात् ॥१३