SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १५१० वसिष्ठस्मृतिः । पथ्य कन्यानृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥२६ व्यवहारे मृते दारे प्रायश्चित्तं कुलस्त्रियः । तेषां पूर्वपरिच्छेदाच्छिद्यन्तेऽत्रापवादिभिः ॥३० उद्वाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ ३१ स्वजनस्यार्थे यदि वाऽर्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम् ते शब्दवंशस्य कुलस्य पूर्वान्स्वर्गस्थितांस्तानपि पातयन्ति, अपि पातयन्ति ||३२ इति वासिष्ठे धर्मशास्त्रे षोडशोऽध्यायः । सप्तदशो ॥ अथ सप्तदशोऽध्यायः ॥ पुत्रिणां प्रशंसावर्णनम् । ऋणमस्मिन्संनयति अमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येचेज्जीवतो मुखम् ॥ १ अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोऽस्तीति श्रूयते ॥२ प्रजाः सन्त्वपुत्रिण इत्यभिशापः ॥ ३ प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥४ पुत्रेण लोकाञ्जयति पौत्रेणाऽऽनन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याऽऽप्नोति विष्टपम्, इति ॥५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy