________________
१५०६
वसिष्ठस्मृतिः। पिथदशोकुक्कुटशुकसारिकाकोकिलक्रव्यादा प्रामचारिणश्चप्रामचारिणश्चेति ।।३७
इति वासिष्ठे धर्मशास्त्रे चतुर्दशोऽध्यायः ।
अथ पञ्चदशोऽध्यायः ।
दत्तकप्रकरणवर्णनम्। शोणितशुक्रसंभवः पुरुषो मातापितृनिमित्तकः ॥१ तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥२ न त्वेकं पुत्रं दचाप्रतिगृह्णीयाद्वा ॥३. स हि संतानाय पूर्वेषाम् ॥४ न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद् भर्तुः ॥५ पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चाऽऽवेद्य निवेशनस्य मध्ये व्याहृतिभिहु त्वा दूरेवान्धवं बन्धुसंनिकृष्टमेष प्रतिगृह्णीयात् ॥६ संदेहे चोत्पन्ने दूरे वान्धवं शूद्रमिव स्थापयेत् ॥७ विज्ञायते टेकेन हूंखायत इति ॥८ तस्मिश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत, चतुर्थभागभागी स्याहत्तकः॥