SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ १५०४ वसिष्ठस्मृतिः। [चतुर्दशोअपि पत्र प्राजापत्यान्च्छलोकानुदाहरन्ति ॥१२ उद्यतामाहृतां भिक्षा पुरस्तादप्रचोदिताम् । भोज्यां प्रजापतिमैने अपि दुष्कृतकारिणः ॥१३ श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः। न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् ॥१४ . न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥१५ चिकित्सकस्य मृगयोः शल्यहस्तस्य पापिनः । प(प)ण्डस्य कुलटायाश्च उद्यताऽपि न गृह्यते, इति ॥१६ उच्छिष्टमगुरोरभोज्यं, स्वमुच्छिष्टोपहतं च ॥१७ यदशनं केशकीटोपहतं च ॥१८ कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनाऽवकीर्य वाचा प्रशस्तमुपभुञ्जीत ॥१६ अपि पत्र प्राजापत्याञ्छ्लोकानुदाहरन्ति ॥२० त्रीणि देवाः पवित्राणि ब्राह्मनामकल्पयन् । अदृष्टमद्भिनिर्णिक्तं यच्च वाचा प्रशस्यते ॥२१ देवद्रोण्या विवाहेषु यज्ञेषु प्रकृतेषु च । काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विसर्जयेत् ।।२२ तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति । द्रवाणां प्लावनेनैव धनानां प्रोक्षणेन तु। मार्जारमुखसंस्पृष्टं शुचि एव हि तद्भवेत् ॥२३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy