________________
ऽध्यायः] चिकित्सकादीनामन्नोजनेनिषेधवर्णनम् । १५०३
॥ चतुर्दशोऽध्यायः ॥ अथ चिकित्सकादीनामन्नभोजनेनिषेधवर्णनम् । अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥१ । चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ठपतितानामन्नमभोज्यम् ।।२ कदर्यदीक्षितबद्धातुरसोमविक्रयितक्षकरजकशौण्डिकसूचकवाघुषिकचर्मावकृत्तानां, शूद्रस्य चात्रभृतश्चोपपत्तेते)यश्चोपपत्ति(ति) मन्यते, यश्च गृहान्दहेत् , यश्च वधाई नोपहन्यात्को भक्ष्यत इति ॥३ वाचाऽभिघुष्टं गणान्नं गणिकान्नं चेति ॥४ अथाप्युदाहरन्ति ।।५ .
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः। ___ भार्याजितस्य नाश्नन्ति यस्य चोपपविहे, इति ॥६ एषोदकयवसकुशलाजाभ्युद्यतयानावसथशफरीप्रियकुलम्गन्धमधुमासानीत्येतेषां प्रतिगृह्णीयात् ॥७ अथाप्युदाहरन्ति ॥२ गुर्वथं दारमुज्जिहीषन्नर्चिष्यन्देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः, इति ॥8 न मृगयोरिषुचारिण परिवर्जमन्नम् ॥१० . विज्ञायते जगस्त्यो वर्षसाहरिके सत्रे मृगयां चकार, तस्याऽऽसंस्तु रसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥११