________________
१५००
वसिष्ठस्मृतिः ।
अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ॥४१ नावं च सांशयिकीं नाधिरोहेत [त् ] ॥४२ बाहुभ्यां न नदीं तरेत् ॥४३
[ त्रयोदशो
उत्थायापररात्रमधीत्य न पुनः प्रति संविशेत् ॥४४ प्राजापत्ये मुहूर्ते ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति ॥४५
इति वासिष्ठे धर्मशास्त्रे द्वादशोऽध्यायः ॥
॥ अथ त्रयोदशोऽध्यायः ॥ अथोपाक विधिः, वेदाध्ययनस्यानध्यायनिरूपणम् । अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रोष्ठपद्यां वाऽग्निमुपसमाधाय कृताधानो जुहोति देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ १
ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुवरन् ॥२ अर्धपश्चममासानर्घषष्ठान्वाऽत ऊर्ध्वं शुक्लपक्षेष्वधीयीत,
कामं तु वेदाङ्गानि ॥ ३ तस्यानध्यायाः ॥४ संध्यास्तमिते संध्यास्वन्तः शवदिवाकीर्त्येषु नगरेषु कामं गोमयपर्युषिते परिलिखिते वा श्मशानान्ते शयानस्य श्राद्धिकस्य ॥५