________________
Sध्यायः ] स्नातकव्रतं, वस्त्रादिधारण विधिवर्णनम् ।
आ चतुर्विंशाश्यस्य ॥५३
अत उष्वं पतितसावित्रीका भवन्ति ॥ ५४ नैतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥ ५५ पतितसावित्रीक उद्दालकत्रतं चरेत् ॥५६
द्वौ मास यावकेन वर्तयेत्, मासं पयसा, अर्घमासमामिक्षयाऽष्टरात्रं घृतेन, षड्रात्रमयाचितेन, त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेत् ॥५७
अश्वमेधावभृथं गच्छेत् ॥५८
वात्यस्तोमेन वा यजेद्वा यजेदिति ॥५६
इति वासिष्ठे धर्मशास्त्रे एकादशोऽध्यायः ।
॥ अथ द्वादशोऽध्यायः ॥
अथ स्नातकत्रतं, वस्त्रादिधारण विधि वर्णनम् ।
अथातः स्नातकव्रतानि ॥ १
स न कंचिद्याचेतान्यत्र राजान्तेवासिभ्यः ॥२ क्षुधा परीतस्तु किंचिदेव याचेत, कृतमकृतं वा क्षेत्रं गामजाविकमन्ततो हिरण्यं धान्यमन्नं वा, न तु स्नातकः क्षुधाऽवसीदेदित्युपदेशः ॥ ३ न मलिनवाससा सह संवसेत, न रजस्वलया, नायोग्यया, न कुलं कुलं स्यात् ॥४
-१४६७