________________
ऽध्यायः] श्राद्धभोजनसमयेभोक्त्यनगुणत्याज्यवर्णनम् १४६५ (अग्रे कुतपकालः, उपनयनकालः, दण्डादिधारणविधि)
यावदुष्ठां भवत्यन्नं यावदश्नन्ति वाग्यताः। तावद्धि पितरोश्नन्ति यावन्नोक्ता हविर्गुणाः ।।२९ हविर्गुणा न वक्तव्याः पितरो यावदतर्पिताः पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥३० नियुक्तस्तु यदा श्राद्ध देवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥३१ त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥३२ दिवसस्याष्टमे भागे मन्दी भवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥३३ श्राद्धं दत्त्वा च मुक्त्वा च मैथुनं योऽधिगच्छति । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥३४ यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम् । न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ॥३५ पितापितामहश्चैव तथैव प्रपितामहः । उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥३६ मधुमांसश्च शाकैश्च पयसा पायसेन वा । एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥३७ संतानवर्धनं पुत्रमुचतं पितृकर्मणि। . देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥३८ तन्वन्ति पितरस्तस्य सुझष्टैरिव कर्षकाः। यद्गयाखो ददात्यन्नं पितरम्तेन पुत्रिणः ॥३६