________________
१४६४
वसिष्ठस्मृतिः। [एकादशोश्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् । श्वोतन्ते हि सुधाधारास्ताः पिबन्त्यकृतोदकाः॥१८ उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः । क्षीरधारास्ततो यान्ति अक्षय्याः पक्तिभागिनः॥१६ प्राक्संस्कारप्रमीतानां स्ववंश्यनामिति श्रुतिः । भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥२० उच्छेषणं भूमिगतं विकिर लेपनोदकम् । अन्नं प्रेतेषु विसृजेदप्रजानामनायुषाम् ।।२१ उचयोः शाखयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् । तदनन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ।।२२ तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम् । भो(भा)जनं वा समालभ्य तिष्ठतीच्छषणे उभे ॥२३ वै देवे पितृकृत्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥२४ सक्रिया देशकालौ च शौचं ब्राह्मणसंपदम् । पञ्चतान्विस्तरोहन्ति तस्मात्तं परिवर्जयेत् ॥२५ अपि वा भोजयेदेकं ब्राह्मणं वेद पारगम् । श्रतशीलोपसंपन्नं सर्वालक्षणवर्जितम् ।।२६ यद्यकं भोजयेच्छाद्ध देवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥२७ देवतायतने कृत्वा ततः श्राद्ध प्रवर्तयेत् । प्रास्येदनौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ॥२८