________________
ऽध्यायः] गृहस्थधर्मवर्णनम्।
१४८६ नास्यानश्नन्गृहे वसेत् ॥५
यस्य नाश्नाति वासार्थी ब्राह्मणो गृहमागतः । सुकृतं तस्य यत्किंचित्सर्वमादाय गच्छति ।।६ एकरात्रं तु निवसन्नतिथिाह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥७ नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा। काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ॥८ श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ।। अलं च सोमपानाय नासोमयाजी स्यात् ।।१० युक्तः स्वाध्याये प्रजनने यज्ञे च ।।११ गृहेष्वभ्यागतं प्रत्युत्थानासनशयनवाक्सूनृतानसूयाभिर्मानयेत् ॥१२ यथाशक्ति चान्नेन सर्वभूतानि ॥१३ गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
चतुर्णामाश्रमाणां तु गृहस्थस्तु विशिष्यते ॥१४ यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् ॥१५ यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः ॥१६ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । ऋतौ च गच्छन्विधिवच्च जुबन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥१७
इति वासिष्ठे धर्मशास्त्रेऽष्टमोऽध्यायः।