________________
१४६०
वसिष्ठस्मृतिः। [दशमो॥ अथ नवमोऽध्यायः॥
वानप्रस्थधर्मवर्णनम् । वानप्रस्थो जटिलश्चीराजिनवासा ग्रामं च न प्रविशेत् ॥१ न फालकृष्टमधितिष्ठेत् ॥२ अकृष्टं मूलफलं संचिन्वीत, ऊर्ध्वरेताः क्षमाशयः ॥३ मूलफलभेक्षेणाऽऽश्रमागतमतिथिमचर्ययेत् ॥४ दद्यादेव न प्रतिगृह्णीयात् ॥५ त्रिषवणमुदकमुपस्पृशेत् ॥६ श्रावणकेनाग्निमाधायाऽऽहिताग्निः स्यावृक्षमूलिकः ॥७ ऊवं षड्भ्यो मासेभ्योऽनग्निरनिकेतः ॥८ दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमानन्त्यम् ।।
इति वासिष्ठे धर्मशास्त्रे नवमोध्यायः ।
अथ दशमोऽध्यायः।
___ अथ यतिधर्मवर्णनम्। पब्रिाजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत॥१ अथाप्युदाहरन्ति ॥२
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः। तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥३ अभयं सर्वभूतेभ्यो दत्त्वा यस्तु निवर्तते । हन्ति जातानजातांश्च द्रव्याणि प्रतिगृह्य च ॥४