________________
१४८८
वसिष्ठस्मृतिः ।
तेषां वेदमधीत्य वेदौ वा वेदान्वाऽविशीर्णब्रह्मचर्यो
यमिच्छेत्तमावसेत् ॥ २
ब्रह्मचार्याचार्य परिचरेत् ॥ ३ आ शरीरविमोक्षात् ॥४ आचार्य प्रमीतेऽग्निं परिचरेत् ॥५
विज्ञायते हि तवाग्निराचार्य इति || ६
[ सप्तमो
संयतवाक्चतुर्थषष्ठाष्टमकालभोजी भैक्षमाचरेत् ॥७
गुर्वधीनो जटी (टि) लः शिखाजटो वा गुरु ं गच्छन्तमनुगच्छेत् ॥ आसीनं च तिष्टञ्छयानं चाऽऽसीन उपासीत ॥
आहूताध्यायी सवं लब्धं निवेद्य तदनुज्ञया भुञ्जीत ॥ १०
खट्वाशयनद्न्तप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी तिष्ठेदहनि रात्रावासीत ॥ ११
त्रि. कृत्वोऽभ्युपेयादपोऽभ्युपेयादप इति ॥ १२ इति वासिष्ठे धर्मशास्त्रे सप्तमोऽध्यायः ।
अथाष्टमोऽध्यायः । गृहस्थधर्मवर्णनम् ।
गृहस्थो विनीतको हर्षो गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षामस्पृष्टमैथुनां यवीयसीं सदृशीं भार्या विन्देत ||१
(न) पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृवन्धुभ्यः ॥२ वैवाह्यममिभिन्धीत || ३ सायमागतमतिथिं नावरुन्ध्यात् ॥४