________________
ऽध्यायः] सत्पात्रलक्षण,मञ्जलिनाजलंनपिबेदाचारनिरूपणञ्च १४८७
एवं गां च हिरण्यं च वस्त्रमश्वं महीं तिलान् । अविद्वान्प्रतिगृह्णानो भस्मी भवति दारुवत् ॥३० नाङ्गनखवादनं कुर्यान्नखैश्च भोजनादौ ॥३१ न चापोऽञ्जलिना पिबेत् ॥३२ न पादेन पाणिना वा जलमभिहन्यान जलेन जलम् ॥३३ नेष्टकाभिः फलानि पातयेत् ॥३४ न फलेन फलं न कल्को न कुहको भवेत् ॥३५ न म्लेच्छभाषां शिक्षेत् ॥३६ अथाप्युदाहरन्ति ॥३७ न पाणिपादचपलो न नेत्रचपलो भवेत् । न चाङ्गचपलो विप्र इति शिष्टस्य गोचरः॥३८ पारम्पर्यागतो येषां वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥३६ यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुवृत्तं वेद कश्चित्स ब्राह्मण इति, ॥४०
इति वासिष्ठे धर्मशास्त्रे षष्ठोऽध्यायः।
-
॥ सप्तमोऽध्यायः॥ .
अथ ब्रह्मचारिधर्मवर्णनम् । चत्वार आश्रमा ब्रह्मचारी(रि) गृहस्थवानप्रस्थपरिव्राजकाः॥१