SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] शावाशौचनिरूपणवर्णनम्। १४८१ पितॄणां वा एषा दिक्, या दक्षिणा ॥१४ गृहान्वजित्वा प्रस्तारे त्र्यहमनश्नन्त आसीरन् ॥१५ अशक्तौ क्रीतोत्पन्नेन वर्तेरन्दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥१६ मरणात्प्रभृति दिवसगणना सपिण्डता तु सप्तपुरुषं विज्ञायते ॥ अप्रत्तानां स्त्रीणां त्रिपुरुषं त्रिदिनं विज्ञायते ॥१८ प्रत्तानामितरे कुर्वीरस्तांश्च(?) तेषां जननेऽप्येवमेव निपुणां शुद्धिमिच्छतां मातापित्रोर्बीज निमित्तत्वात् ॥१६ अथाप्युदाहरन्ति ॥२० नाशौचं सूतके पुंसः संसर्ग चेन्न गच्छति ।। रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते, इति ॥२१ तञ्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ।।२२ रात्रिशेषे द्वाभ्यां, प्रभाते तिमृभिर्ब्राह्मणो दशरात्रेण पञ्चदशरायेण भूमिपो विशतिरात्रेण वैश्यः शूद्रो मासेन शुध्यति ॥२३ अत्राप्युदाहरन्ति ॥२४ आशौचे यस्तु शूद्रस्य सूतके वाऽपि भुक्तवान् । स गच्छेन्नरकं घोरं तिर्यग्योनिषु जायते, इति ॥२५ अनिर्दशाहे पक्वान्नं नियोगाद्यस्तु भुक्तवान् । कृमिभूत्वा स देहान्ते तद्विद्या मुपजीवति ॥२६ द्वादश मासान्द्वादशार्धमासान्वाऽनश्नन्संहितामधीयानः पूतो भवतीति विज्ञायते ॥२७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy