________________
वसिष्ठस्मृतिः ।
अथ चतुर्थोऽध्यायः ।
अथ मधुपर्कादिषु पशुहिंसनवर्णनम् ।
प्रकृतिविशिष्टं चातुर्वण्यं संस्कारविशेषाश्च ॥ १ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत, इति निगमो भवति ॥२
१४८०
[ चतुर्थी
गायत्र्या छन्दसा ब्राह्मणमसृजत्त्रिष्टुभा राजन्यं, जगत्या वैश्यं, न केनचिच्छन्दसा शूद्रमित्यसंस्कार्यो विज्ञायते ॥३ सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥४ पितृदेवतातिथिपूजायां पशुं हिंस्यात् ॥५ मधुपर्केच यज्ञे च पितृदैवतकर्मणि । अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ||६ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥७ अथापि ब्राह्मणाय वा राजन्याय वाऽभ्यागताय वा महोक्षं वा महाजं वा पचेदेवमस्याऽऽतिथ्यं कुर्वन्तीति ॥८ उदकक्रियामशौचं च द्विवत्प्रभृति मृत उभयं कुर्यात् ॥ दन्तजननादित्येके ||१०
शरीरमग्निना संयोज्यानवेक्ष्यमाणा अपोऽभ्यवयन्ति ॥११ सव्येतराभ्यां पाणिभ्यामुदकक्रियां कुर्वन्ति ॥१२ अयुग्मा दक्षिणामुखः ॥१३