________________
ऽध्यायः] आचार्यलक्षणम्, श्वहतमृगादीनां शुचित्ववर्णनम् १४७७
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णवांश्चतुर्मेधा वाजसनेयी षडङ्गविद्ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगो मन्त्रव्राह्मणविद्यः स्वधर्मानधीते यस्य दशपुरुपं मातृपितृवंशः श्रोत्रियी विज्ञायते विद्वांसः स्नातकाश्चैते पङ्क्तिपावना भवन्ति ॥२२ चातुर्विद्यं विकल्पी च अङ्गविद्धर्मपाठकः । आश्रमस्थात्रयो मुख्याः परिषत्स्याद्दशावरा ॥२३ उपनीय तु यः कृत्स्नं वेदमध्यापयेत्स आचार्यः ।।२४ यस्त्वेकदेशं स उपाध्यायो यश्च वेदाङ्गानि ॥२५ आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यो शत्रमाददीयाताम् ॥२६ क्षत्रियस्य तु तन्नित्यमेव रक्षणाधिकारात् ॥२७ प्राग्वोदग्वाऽऽसीनः प्रक्षाल्य पादौ पाणीचाऽऽमणिबन्धनात् ॥२८ अङ्गुष्ठमूलस्योत्तरतो रेखा ब्राह्मतीर्थ तेन त्रिराचामेदशब्दवद्धिः(दोषावद्भिः) परिमृज्यान ॥२६ खान्यद्भिः संस्पृशेत् ॥३० मूर्धन्यपो निनयेत् ।।३१ सव्ये च प्रणो, व्रजस्तिष्टश्शयानः प्रणतो वा नऽऽचामेत् ॥३२ हृदयङ्गमाभिरद्भिरबुबुदाभिरफेनाभिाह्मणः कण्ठगाभिः क्षत्रियः शुचिः ॥३३ वैश्योऽद्भिः प्राशिताभिस्तु स्त्रीशूद्रं स्पृष्टाभिरेव च ॥३४ पुत्रदारादयोऽपि गोस्तर्पणाः स्युः ।।३५ न वर्णगन्धरसदुष्ठाभिर्याश्च स्युरशुभागमाः ॥३६