________________
वसिष्ठस्मृतिः ।
श्रोत्रियायेव देयानि हव्यकव्यानि नित्यशः । अश्रोत्रियाय दत्तं हि पितृन्नेति न देवताः ॥ ६ यस्य चैव गृहे मूर्खो दूरे चैव बहुश्रुतः । चैत्र बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥१० ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥११ यत्र काष्ठमयो हस्ती यश्च चर्ममयो मृगः । यश्व विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥१२ विद्वद्भोज्यान्यविद्वांसो येषु राष्ट्रषु भुञ्जते । तान्यनावृष्टिमृच्छन्ति महद्वा जायते भयम्, इति ॥ १३ अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा
१४७६
तद्धरेदधिगन्त्रे षष्ठमंशं प्रदाय ॥१४
ब्राह्मणश्चेदधिगच्छेत्पट्कर्मसु वर्तमानो न राजा हरेत् ॥१५ आततायिनं हत्वा नात्र प्राणच्छेत्तुः किंचित्किल्विषमाहुः ॥१६ षडूविधा ह्याततायिनः ॥ १७
अथाप्युदाहरन्ति ||१८
अनिदो गरदश्व शस्त्रपाणिधनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ १६
[ तृतीयो
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥२० स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा सस्यान्मन्युस्तं मृत्युमृच्छति ॥२१