________________
१४७३
ऽध्यायः ] वार्धुषिकान्नभक्षणे, ब्राह्मणराजन्ययोर्निषेधः अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्ठेरन् ॥२७ न तु कदाचिज्ज्यायसीम् ॥२८
वैश्यजीविकामास्थाय पण्येन जीवतोऽश्मलवण मणिशाणकौशेयक्षौमाजिनानि च तान्तवं रक्तं सर्व च कृतान्नं पुष्पफलमूलानि च गन्धरसा उदकं चौषधीनां रसः सोमश्च शस्त्रं च क्षीरं विषं मासं च सविकारमयस्त्रपु जतु सीसं च ॥ २६ अथाप्युदाहरन्ति ॥ ३०
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् इति ॥३१ ग्राम्यपशूनामेकशफाः केशिनश्च सर्वे चाऽऽरण्याः पशवो
वयांसि दंष्ट्रिणा ||३२
धान्यानां तिलानाहुः || ३३ अथाप्युदाहरन्ति ॥ ३४
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।
कृमिभूतः स विष्ठायां पितृभिः सह मज्जति इति ॥३५ कामं वा स्वयं कृष्योत्पाद्य तिलान्विक्रीणीरन् ॥३६ तत्मात्साण्डाभ्यां सनस्योताभ्यां प्राक्प्रातराशात्कर्षी स्यात् ३७
निदाघेऽपः प्रछच्छेत् ॥३८ नानिपीडयलाङ्गलं प्रवीरवत्सुशेवं सोमपित्सरु तदुद्वपतिगामवि चाजानश्वानश्वतरखरोष्ट्रांश्च प्रफव्यं च पीवरी प्रस्थावद्रथवाहनमिति ॥ ३६
लाङ्गलं प्रवीरवद्वीरवत्सुमनुष्यवदनडुद्वत्सुशेवंकल्याणनासिकं कल्याणी ह्यस्य ।