________________
ऽध्यायः उपपावकंवाझविवाहं ब्राह्मणादिवर्णमाचारश्चनिरूपणम् १४७१
इष्टापूर्तस्य तु षष्ठमंशं भजतीति ह ब्राह्मणो वेदमाचं करोति, ब्राह्मण आपद उद्धरति तस्मादब्राह्मणोऽनाधः ।।४५ सोमोऽस्य राजा भवतीति ह प्रेत्य चाऽऽभ्युदयिकमिति है विज्ञायते ।।४६
इति वासिष्ठे धर्मशास्त्रे प्रथमो.ध्यायः ।
... अथ द्वितीयोऽध्यायः । अथ ब्राह्मणादीनां प्रधामकर्मणि-पातित्यहेतवः कृषिधर्मनिरूपणम् ।
चत्वारो वर्णा प्रावणक्षत्रियवैश्यशूद्राः ॥१
यो वर्णा द्विजातयो ब्रासमक्षत्रियवैश्याः ।।२ वेषां मातुरप्रेऽधिजननं द्वितीयं मौजीबन्धने ॥३ तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥४ वेदप्रदानावितेत्याचार्यमाचक्षते ॥५ अथाप्युदाहरन्ति ॥६ द्वयमु वै ह पुरुषस्य रेतो ब्राह्मणस्योचं नाभेरर्वाचीनमन्यद्यद्यदूध्वं नाभेस्तेनास्यानौरसी प्रजा जायते ॥७ यदुपनयति जनन्यां जनयति यत्साधू करोति ॥८ अथ यदर्वाचीनं नामेस्तेनेहास्यौरसी प्रजा जायते ॥ तस्माच्छ्रोत्रियमनूचानमप्रजोऽसीति न वदन्तीति ॥१० हारीतोऽप्युदाहरति ।।११