________________
आर्यावर्तलक्षणं, एनस्विनिरूपणं, पंचमहापातकवर्णनम् । १४६६
क्षिणेन हिमवत उत्तरेण च विन्ध्यस्य ॥७
तस्मिन्देशे ये धर्मा ये चाऽऽचारास्ते सत्र प्रत्येतव्याः ॥८ न त्वन्ये प्रतिलोमकल्पधर्माण: ॥
एतदार्यावर्तमित्याचक्षते ||१०
गङ्गायमुनयोरन्तरेऽप्येके ॥११
यावद्वा कृष्णमृगो विचरति तावद्द्ब्रह्मवर्चसमित्यन्ये ॥१२ अथापि भालविनो निदाने गाथा मुदाहरन्ति ॥१३ पश्चात्सिन्धुर्विहरिणी सूर्यस्योदय पुरः । यावत्कृष्णोऽभिधावति तावद्वै ब्रह्मवर्चसम् ॥१४ त्रैविद्यवृद्धा यं ब्रूयुर्धमं धर्मविदो जनाः । पवने पावने चैव स धर्मो नात्र संशय इति ॥१५ देशधर्मजाविधमैकुलर्धान्श्रुत्यभावादब्रवीन्मनुः ||१६ सूर्याभ्युदितः सूर्याभिनिर्मुक्तः कुनखी श्यावदन्तः परिवित्तिः परिवेत्ताऽग्रेदिधिषूपतिर्वीरा ब्रह्मोज्झ इत्येनस्विनः ॥ १७ पश्च महापातकान्याचक्षते ॥१८ गुरुतल्प सुरापानं भ्रूणहत्या ब्राह्मणसुवर्णापहरणंपतितसंयोगश्च ॥ १६ ब्राह्मण वा यौनेन वा ॥२० अथाप्युदाहरन्ति ॥ २१
संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाद्यौनान्न तु यानासना शना ] दिति ॥ २२ योऽमीनपविध्येद्गुरुं च यः प्रतिजघ्नुयान्नास्तिको
नास्तिकवृत्तिः सोमं च विक्रीणीयादित्युपपातकानि ॥२३