________________
ॐ तत्सद्ब्रह्मणे नमः ।
अथ
॥ वसिष्ठस्मृतिः ॥
॥ श्रीगणेशाय नमः ॥
・O
अथ प्रथमोऽध्यायः ।
अथ धर्मजिज्ञासा, धर्माचरणस्यफलं, धमलक्षणं, अर्यावर्त,
पंचमहापातकवर्णनम् ।
अथातः पुरुषनिःश्रेयसाथं धर्मजिज्ञासा ॥ १ ज्ञात्वा चानुतिष्ठन्धार्मिकः प्रशस्यतमो भवति लोके, प्रेत्य च स्वगं लोकं समश्नुते ॥२ श्रुतिस्मृतिविहितो धर्मः ||३ तदलाभे शिष्टाचारः प्रमाणम् ॥४
शिष्टः पुनरकामात्मा ॥५ अगृह्यमाणकारणो धर्मः ॥६
आर्यावर्तः प्रागादर्शात्प्रत्यक्कालकवनादुदक्पारियात्राह