SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ वैश्वदेवमकृत्वैवभुञ्जानस्य-काकयोनिवर्णनम्। १४६५ वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः। सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ।।२ अकृते वैश्वदेवे तु ये भुञ्जन्ति द्विजातयः । वृथा ते तेन पाकेन काकयोनि ब्रजन्ति वै॥३ अन्नं व्याहृतिभिर्तुत्वा तथा मन्त्रौस्तु शाकलैः । अन्नं विभज्य भूतेभ्यस्ततोऽश्नीयादननिमान् ॥४ यो दद्यादवलिफ्लेशः सानाय्यं वा निवर्तते । दृष्टो वाऽदृष्टपूर्बो वा स यज्ञः सार्वकामिकः ॥५ इष्टो वा यदि वा मूल् द्वेष्यः पण्डित एव वा। प्राप्तस्तु वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः ॥६ दातारः किं विचारेण गुणवानिर्गुणी भवेत् । समं वर्षति पर्जन्यः सस्यादपि तृणादपि ।।७ यान्पासान्क्षुधितो भुङ्क्ते ते प्रासाः क्रतुभिः समाः। प्रासे तु हयमेधस्य फलं प्राप्नोति मानवः ।।८ अद्भिश्चाऽऽसनवाक्यैश्च फलैः पुपैमनोरमैः । तृणैरञ्जलिभिश्चैव देवांस्तृप्येत्पुनः पितृन् ॥६ पितृनभ्यर्चयेद्यस्तु तस्य नास्ति सुसंयमः । इदं तु परमं गुह्यं व्याख्यातमनुपूर्वशः॥१० स्वल्पग्रन्थप्रभूतार्थ शङ्खन लिखितेन च । यथा हि मृण्मयं पात्रं दुष्टं दोषशतैरपि ॥११ पुनर्दाहेन शु येत धर्मशास्त्रस्तथा द्विजाः। धर्मशासप्रदीपोऽयं धार्य: पथानुदेशिकः ॥१२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy