SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १४६ शङ्खलिखितस्मृतिः। निष्यन्दं सर्वशाखाणां व्याधीनामिव भेषजम्॥१३ परपांकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वाऽनं द्विजश्चान्द्रायणं चरेत् ।।१४ परानन तु भुक्तन मैथुनं योऽधिगच्छति। यस्यानं तस्य ते पुत्रा अन्नाच्छुक्र प्रवर्तते ।।१५ अन्नात्तेजो मनः प्राणाश्चक्षुः श्रोत्रं यशो बलम् । धृति श्रुति तथा शुक्र परान्नं वर्जयेद् बुधः ॥१६ परान्न परवलंच परयानं परस्त्रियः । परवेश्मनि वासश्च शक्रस्यापि श्रियं हरेत् ॥१७ आहितामिस्तु यो विप्रो मत्स्यमांसानि भोजयेत् । कालरूपी कृष्णसर्पो जायते ब्रह्मराक्षसः॥१८. आहितामिस्तु यो विप्रः शूद्रान्नानि च भुखते। पच तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽप्रयः ॥१६ एतदर्थ विशेषेण ब्राह्मणान्पालयेन्नृपः ।।२० . प्रत्यूषे च प्रदोषे च यदधीये(यी)त ब्राह्मणः । तेन राष्ट्रं च राज्यं च वर्धते ब्रह्मतेजसा ।।२१ अयं वृक्षस्य राजानो मूलं वृक्षस्य ब्राह्मणाः । तस्मान्मूलं न हिंसीयान्मूलादनं प्ररोहति ।।२२ फळं वृक्षस्य राजानः पुष्पं वृक्षस्य ब्राह्मणाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलम् ॥२३. गावो भूमिः कलत्रं च ब्रह्मत्वहरणं तथा। यस्तु न त्रायते राजा तमाहुब्रह्मघातकम् ॥२४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy