________________
१४६४ ' शङ्खलिखितस्मृतिः ।
मार्जनीरजमेष (पा)ण्डं मानवस्त्रघटोदकम् । नवाम्भसि तथा चैव हन्ति पुण्यं दिवाकृतम् ॥६४ दिवा कपित्थच्छायायां रात्रौ दधिशमीषु च । धात्रीफलेषु सर्वत्र अलक्ष्मीवसते सदा ॥६५ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलहोमो गायत्र्यष्टशतं जपेत् ॥६६ इति लिखितषिप्रोक्तं धर्मशास्त्रं समाप्तम् ।
समाप्तेयं लिखितस्मृतिः।
ॐ तत्सद्ब्रह्मणे नमः। ॥ अथ ॥
-शखलिखितस्मृतिः।
......०००.....
श्रीगणेशाय नमः।
अथ वैश्वदेवमकृत्वैव मुखानस्य काकयोनिवर्णनम् । वासुदेवं नमस्कृत्य शसस्य लिखितस्य च । धर्मशासं प्रवक्ष्यामि दनि चैव घृतं यथा ॥१