SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ लिखितस्मृतिः। आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र विहिताः श्राद्ध सावधाना भवन्तु ते॥५० इष्टिश्राद्ध ऋतुर्दक्षो वसुः सभ्यश्च वैदिके। कालः कामोऽग्निकार्येषु काम्येषु धुरिलोचनौ ।।५१ पुरुरवावश्चैव पार्वणेषु नियोजयेत् ॥५२ यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता। नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥५३ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥५४ मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितोयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥५५ सुण्मयेषु च पात्रे षु श्राद्ध यो भोजयेत्पितॄन् । अन्नदाता पुरोधाश्च भोक्ता च नरकं व्रजेत् ॥५६ अलाभे मृण्मयं दद्यादनुज्ञातस्तु तैर्द्विजैः । घृतेन प्रोक्षणं कुर्यान्मृदः पानं पवित्रकम् ।।५७ श्राद्धं कृत्वा परश्राद्धे यस्तु भञ्जीत विह्वलः । पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः॥५८ श्राद्धं दत्त्वा च भुक्त्वा च अध्वानं योऽधिगच्छति । भवन्ति पितरस्तस्य तन्मासं पांसुभोजनाः ॥५६ पुनर्मोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेत् ॥६०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy