________________
श्राद्ध-परश्राद्धभोक्तृ, श्राद्धकर्तृ, श्राद्धभोक्तृ, नवश्राद्ध १४६१
भुञ्जानस्य वर्णनम् । अध्वगामी भवेदश्वः पुनर्भोक्ता च कायसः । कर्मकृजायते दासः स्त्रीसङ्गेन च सूकरः ॥६१ दशकृत्वः पिबेदा (चा) पः सावित्र्या चाभिन्त्रिताः । ततः संध्यामुपासीत शुध्येत तदनन्तरम् ॥६२ आर्द्रवासास्तु यत्कुर्याद्वहिर्जानु च यत्कृतम् । तत्सव निष्फलं कुर्याजपहोमप्रतिहम् ॥६३ चान्द्रायणं नवश्राद्ध पराको मासिके तथा । . पक्षत्रये तु कृच्छं स्यात्षण्मासे कृच्छ्रमेव च ॥६४ ऊनाब्दिके त्रिरानं स्यादेकाहः पुनराब्दिके। शावे मासस्तु भुक्त्वा वा पादकृच्छ्रो विधीयते ॥६५ सर्पविप्रहतानां च शृङ्गिदंष्ट्रिसरीसृपः। आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ॥६६ गोभिहतं तथोद्वद्धं ब्राह्मणेन तु घातितम्। तं स्पर्शयन्ति ये विप्रा गोजाश्वाश्च भवन्ति ते॥६७ अग्निदाता तथा चान्ये पाशच्छेदकराश्च ये। तप्तकृच्छ्रण शुध्यन्ति मनुराह प्रजापतिः ॥६८ त्र्यहमुष्णं पिबेदा [चा पत्यहमुष्णं पयः पिबेत् । व्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ॥६६ गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च । . यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥७८ उद्यताः सह धावन्ते सर्वे ये शस्त्रपारः। यद्यकोऽपि हनेत्तत्र सर्वे ते ब्रह्मधारकाः ।।...)