________________
.
लाल
१४५८
लिखितस्मृतिः। अथ चन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदूभ्यं तं यमः प्राह पङ्क्तिपावन एव सः॥२८ अग्नौकरणशेषं तु विश्वेदेवादि हूयते । अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।।२६ यो पग्निः स द्विजो विप्रेमन्त्रदर्शिभिरुच्यते ॥३० अजस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे । रजते च सुवर्णे च नित्यं वसति पावकः ॥३१ यत्र यत्र प्रदातव्यं श्राद्धं कुर्वीत पार्वणम् । तत्र मातामहानां च कर्तव्यमुभयं सदा ॥३२ अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा। एभ्य एव प्रदातव्यमेकोद्दिष्टं न पार्वणम् ।।३३ यस्मिन्राशिगते सूर्ये विपत्तिः स्याद्विजन्मनः । तस्मिन्नहनि कर्तव्यं दानं पिण्डोदकक्रिया ॥३४ वर्षवृद्ध्याभिषेकादि कर्तव्यमधिके न तु। अधिमासे तु पूर्व स्याच्छ्राद्धं संवत्सरादपि ॥३५ स एव हेयोदिष्टस्य येन केन तु कर्मणा । अभिघातान्तरं कार्य तत्रैवाहः कृतं भवेत् ॥३६ शालाग्नौ पच्यते ह्यन्नं लौकिके वाथ संशयः । यस्मिन्नेव पचेदन्नं तस्मिन्होमो विधीयते ॥३७ वैदिके लौकिके वाऽपि नित्यं हुत्वा यतन्द्रितः । वदिके स्वर्गमाप्नोति लौकिके हन्ति किल्विषम् ॥३८