________________
उदककुम्भदानं अंमिखान, अपुत्रिणामेकोदिष्टश्राद्धवर्णनम् । १४५७
वर्षे वर्षे तु कर्तव्यं मात्रापित्रोस्तु संततम् । अदैवं भोजयेच्छाद्धं पिण्डमेकं तु निर्वपेत् ॥१८ संक्रान्तावपरागे च सर्वोत्सवमहालये । निर्वाप्यास्तु त्रयः पिण्डा एकतस्तु क्षयेऽहनि ॥१६ एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः। अकृतं तद्विजानीयात्स मातृ [ता]पितृघातकः ॥२० अमावास्या[यां तु] आयो यस्य प्रेतपक्षेऽथ वा यदि । सपिण्डीकरणादूवं तस्योक्तः पार्वणो विधिः॥२१ त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते । अहन्येकादशे प्राप्ते पावणं तु विधीयते ॥२२ यस्य संवत्सरादाक्सपिण्डीकरणं स्मृतम् । प्रत्यहं तरसोदकुम्भं दद्यात्संवत्सरं द्विजः । पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः॥२३ पितामयाऽपि तत्तस्मिन्सत्येवं तु क्षयेऽहनि । तस्यां सत्या प्रकर्तव्यं तस्याः श्वश्वेति निश्चितम् ॥२४ विवाहे चैव निवृत्ते चतुर्थेऽहनि रात्रिषु । एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ॥२५ स्वगोत्राद्मश्यते नारी उद्वाहात्सप्तमे पदे । भर्तृगोत्रेण कर्तव्यं व्या] दानं पिण्डोदकक्रियाः ॥२६ द्विमातुः पिण्डदानं तु पिण्डे पिण्डे द्विनामतः । षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति।।२७