________________
१४५६
लिखितस्मृतिः ।
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७ देवतानां पितॄणां च जले दद्याज्जलाञ्जलीन् । असंस्कृत मृतानां च स्थले दद्याज्जलाञ्जलिम् ||८ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकात्तु पितृलोकं स गच्छति ॥ एष्टव्या वहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १० वाराणस्यां प्रविष्टस्तु कदाचिन्निष्क्रमेद्यदि । हसन्ति तस्य भूतानि अन्योन्यं करताडनः ॥ ११ गयाशिरे तु यत्किचिन्नाम्ना पिण्डं तु निर्वपेत् । नरकस्था दिवं यान्ति स्वगस्था मोणमाप्नुयुः ॥ १२ आत्मनो वा परस्यापि गयाकूपे यतस्ततः । यन्नाम्ना पातयेत्पिण्डं तं नयेद् ब्रह्म शाश्वतम् ॥ १३ लोहितो यस्तु वर्णेन शङ्खवर्णखुरः स्मृतः । लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः ॥१४ नवश्राद्ध त्रिपक्षं च द्वादशैव तु मासिकम् । षण्मासौ (से) चाऽऽब्दिकं चैव श्राद्धान्येतानि षोडश ।।१५
यस्यैतानि न कुर्वीत एकोद्दिष्टानि षोडश । पिशाचत्वं स्थिरं तस्य दत्तः श्राद्धशतैरपि ॥१६ सपिण्डीकरणादूध्वं प्रतिसंवत्सरं द्विजः । मातापित्रोः पृथक्कुर्यादेकोद्दिष्टं मृतेऽहनि ॥१७