________________
१४५४
शङ्खस्मृतिः। [अष्टादशोबिल्वैरामलकैर्वाऽपि पद्माक्षेरथवा शुभैः। मासेन लोकेतिकृच्छः कथ्यते बुद्धिसत्तमैः॥७ गोमूगं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छू सांतपनं स्मृतम् ॥८ एतैस्तु व्यहमभ्यस्तं महासांतपनं स्मृतम् । पिण्याकं [क] वामतकाम्बुसक्तूनां [?] पूतिवासरम् ।। उपवासान्तराभ्यासात्तुलापुरुष उच्यते । गोपुरीषाशनो भूत्वा मासं नित्यं समाहितः ॥१० व्रतं तु यावकं कुर्यात्सर्वपापापनुत्तये । प्रासं चन्द्रकलावृद्धया प्राश्नीयाद्वर्धयन्सदा ॥१ हासयेच्च कलाहानौ वृतं चान्द्रायणं चरेत् । मुण्डलिषवणस्नायी अधः शायी जितेन्द्रियः॥१२ स्त्रीशूद्रपतितानां च वर्जयेत्परिभाषणम् । पवित्राणि जपेच्छच्या जुहुयाञ्चैव शक्तितः १३. अयं विधिः स विशेयः सर्वकृच्छषु सर्वदा। पापात्मानस्तु पापेभ्यः कृच्छ्र: संतारिता नराः ॥१४ गतपापादिकं यान्ति नात्र कार्या विचारणा। शङ्खपोक्तमिदं शास्त्रं योऽधीते बुद्धिमानरः॥ सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥१६ । इति शाळे धर्मशास्रष्टादशोऽध्यायः॥
समप्ताचेयं शङ्खस्मृतिः। ॐ तत्सद्ब्रह्मार्पणमस्तु ।