SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] मद्यभाण्डागतशूद्रोच्छिष्टकाकोच्छिष्टादीनांवतवर्णनम् १४५१ मद्यभाण्डगताः पीत्वा सप्तरात्रं ब्रतं चरेत् । शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः॥४३ क्षत्रियस्य तु सप्ताहं ब्रह्मणस्य तथा दिनम् । अग्रश्राद्धाशने विद्वान्मासमेकं ब्रती भवेत् ॥४४ परिवित्तिः परिवेत्ता च यया च परिविन्दति । व्रतं संवत्सरं कुर्युर्दात्याजकपश्चमाः॥४५ काकोच्छिष्टं गवाऽऽघातं भुक्त्वा पक्षं व्रती भवेत् । दूषितं केशकीटैश्च मूषिकालाङ्गलेन च ॥४६ मक्षिकामशकेनापि त्रिरात्रं तु व्रती भवेत् । वृथा कसरसंयावपायसापूपशष्कुलीः॥ ४७ भुक्त्वा त्रिरात्रं कुर्वीत बतमेतत्समाहितः। नील्या चैव क्षतो विप्रः शुना दष्टस्तथैव च ४८ त्रिरात्रं तु व्रतं कुयात्पुंश्चलीदशनक्षतः। पादप्रतापनं कृत्वा वहिं कृत्वा तथाऽप्यधः ।।४६ कुशैः प्रमृज्य पादौ च दिनमेकं व्रती भवेत् । . नीलीवस्त्रं परी (रि) धाय भुक्त्वा स्नानाहणस्तथा ॥५० त्रिरात्रं च व्रतं कुर्य्याच्छित्वा गुल्मलतास्तथा । अध्यास्य शयनं यानमासनं पादुके तथा ॥५१ पलाशस्य द्विजश्रेष्ठस्त्रिरात्रं तु व्रती भवेत् । वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते। भुक्त्वाऽनं ब्राह्मणः पश्चास्त्रिरात्र तु व्रती भवेत् ।।५२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy