________________
शजस्मृतिः। सप्तदशोकेवलानि च शुक्तानि तथा पर्युषितं च यत् । गुडयुक्तं तथा भुक्त्वा त्रिरा च व्रती भवेत् ॥३२ दधि भक्ष्यं च शुक्त (क्तोषु यच्चान्यदधिसंभवम् । गुडशुक्तं तु भक्ष्यं स्यात्ससर्पिष्कमिति स्थितिः ॥३३ यवगोधूमजाः सर्वे विकाराः पयसश्च ये । राजवाडवकुल्यं च भक्ष्यं पर्युषितं भवेत् ॥३४ सजीवपकमांसं च सवं यत्नेन वर्जयेत् । संवत्सरं व्रतं कुर्यात्प्राश्यैताज्ञानतस्तु तान् ॥३५ शूद्रानं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः। चिकित्सकस्य क्षुद्रस्य तथा स्त्रीमृगजीविनः ॥३६ प(प)ण्डस्य कुलंटायाश्च तथा बन्धनचारिणः । बद्धस्य चैव चोरस्य अवीरायाः स्त्रियस्तथा ॥३७ चर्मकारस्य वेणस्य क्लीवस्य पतितस्य च । रुक्मकारस्य धूर्तस्य तथा वार्धषिकस्य च ॥३८ कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च । गणानं भूमिपालानमन्नं चैव श्वजीविनाम् ॥३६ मौखिकान्न सूतिकानं भुक्त्वा मासं व्रतं चरेत् । शूद्रस्य सततं भुक्त्वा षण्मासान्त्रतमाचरेत् ॥४० वैश्यस्य तु तया भुक्त्वा त्रीन्मासान्त्रतमाचरेत् । क्षत्रियस्य तथा भुक्त्वा द्वौमासौ ब्रतमाचरेत् ॥४१ ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रतं चरेत् । अपः सुराभाजनस्थाः पीत्वा पक्षं व्रतं चरेत् ॥४२