SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विवत्सादीनांक्षीरपाने-शूद्रादीनामनभोजने-व्रतवि० १४४६ गौधेरकुञ्जरोष्ट्र च सवपञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सरं ब्रतम् ॥२१ भक्ष्याः पञ्चनखास्त्वेते गोधाकच्छपशल्लकाः । खड्गश्च शशकश्चैव तान्हत्वा च चरेद्वतम् ।।२२ हंसं मद्गुं बकं काकं काकोलं खञ्जरीटकम् । मत्स्यादांश्च तथा मत्स्यान्बलाकं शुकंसारिके ॥२३ चक्रवाकं प्लवं कोकं मण्डूकं भुजगं तथा । मासमेकं व्रतं कुर्यादेतञ्चैव न भक्षयेत् ।।२४ राजीवान्सिहतुण्डाश्च सशल्कांश्च तथैव च । पाठीनरोहितौ भक्ष्यौ मत्स्येषु परिकीर्तितौ ॥२५ जलेचरांश्च जलजान्मुखाग्नखविष्किरान् । रक्तपादाञ्जालपादान्सप्ताहं व्रतमाचरेत् ।।२६ तित्तिरं च मयूरं च लावकं च कपिञ्जलम् । वार्धाणसं वतकं च भक्ष्यानाह यमस्तथा ॥२७ भुक्त्वा चोभयतोदन्तं तथैकशफदंष्ट्रिणः । तथा भुक्त्वा तु मांसं वै मासाधं व्रतमाचरेत् ॥२८ स्वयं मृतं वृथा मांसं माहिषं त्वाजमेव च । गोश्च क्षीरं विवत्सायाः संधिन्याश्च तथा पयः ॥२६ संधिन्यमेध्यं भक्षित्वा पक्षं तु व्रतमाचरेत् । क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ॥३० सप्तरात्रं व्रतं कुर्याद्यदेतत्परिकीर्तितम् । लोहितान्वृक्षनिर्यासान्ब्रश्चनप्रभवांस्तथा ॥३१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy