________________
शकस्मृतिः। [ सप्तदशोपशून्हत्या तथा ग्राम्यान्मासं कृत्वा विचक्षणः। भारण्यानां बधे तद्वत्तदधं तु विधीयते ॥१० हत्वा द्विजं तथा सर्पजलेशयबिलेशयान् । सप्तरात्रं तथा कुर्याद् व्रतं ब्रह्महणस्तथा ॥११ अनस्थ्नो शकटं हत्वा सास्थ्नां दशशतं तथा । प्रमहत्याव्रतं कुर्यात्पूर्ण संवत्सरं नरः ॥१२ यस्य यस्य च वर्णस्य वृत्तिच्छेदं समाचरेत् । तस्य तस्य वधे प्रोक्तं प्रायश्चित्तं समाचरेत् ॥१३ अपहत्ये तु वर्णानां भुवं प्राप्य प्रमादतः। प्रायश्चित्तं वधे प्रोक्तं ब्राह्मणानुमतं चरेत् ॥१४ गोजाश्वस्यापहरणे मणीनां रजतस्य च । जलापहरणे चैव कुर्यात्संवत्सनतम् ॥१५ तिलानां धान्यवराणां मद्यानामामिषस्य च । संवत्सराधं कुर्वीत व्रतमेतत्समाहितः॥१६ तृणेक्षुकाष्ठतक्राणां रसानापहारकः । मासमेकं व्रतं कुर्याद् गन्धानां सर्पिषां तथा ॥१७ लवणानां गुडानां च मूलानां कुसुमस्य च । मासाधतु व्रतं कुर्यादेतदेव समाहितः ॥१८ . लौहानां वैदलानां च सूत्राणां चर्मणां तथा । एकरात्रतं कुर्यादेतदेव समाहितः ॥१६ भुक्त्वा पलाण्डु लशुनं मधं च कवकानि च । नारं मलं तथा मांस विड्वराह खरं तथा ॥२०