________________
ऽध्यायः]
क्षत्रियादिवधे-गवाद्यपहारे-व्रतवर्णनम्।
१४४७
॥ अथ सप्तदशोऽध्यायः ॥ अथ क्षत्रियादिवधे-गवाद्यपहारे-व्रतवर्णनम् । नित्यं त्रिषवणस्नायी कृत्वा प्रर्णकुटी वने। अधःशायी जटाधारी पर्णमूलफलाशनः ॥१ प्रामं विशेञ्च भिक्षार्थ स्वकर्म परिकीर्तयन् । एककालं समश्नीयाद्वर्षे तु द्वादशे गते ॥२ हेमस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनतेन शुध्यन्ते महापातकिनस्त्विमे ॥३ यागस्थं क्षत्रियं हत्वा वेश्यं हत्वा च याजकम् । एतदेव व्रतं कुर्यादात्रेयीविनिषूदकः ॥४. कूटसाक्ष्यं तथैवोक्त्वा निक्षेपमपहृत्य च । एतदेव व्रतं कुर्यात्यक्त्वा च शरणागतम् ॥५ आहिताग्नेः स्त्रियं हत्वा मित्रं हत्वा तथैव च । हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ॥६ वनस्थं च द्विजं हत्वा पार्थिवं च कृतागसम् । एतदेव व्रतं कुर्याद् द्विगुणं च विशुद्धये ॥७ क्षत्रियस्य च पादोनं वधेऽधं वैश्यघातने । अर्धमेव सदा कुर्यात्स्त्रीवधे पुरुषस्तथा ।।८ पादं तु शूद्रहत्यायामुदक्यागमने तथा। गोवधे च तथा कुर्यात्परदारगतस्तथा ॥8