SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ १४४६ ____ शङ्खस्मृतिः। [षोडशो शय्या भार्या शिशुवस्त्रमुपवीतं कमण्डलुः । आत्मनः कथितं शुद्धं न शुद्ध हि परस्य च ॥१५ नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् । रात्रौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि ॥१६ शुद्धा भर्तुश्चतुर्थेऽह्नि मानेन स्त्री रजस्वला । देवे कर्मणि पित्र्ये च पश्चमेऽहनि शुध्यति ॥१७ रथ्याकर्दमतोयेन ष्ठीवनाद्येन वाऽप्यथ । नाभेरूवं नरः स्पृष्टः सद्यः स्नानेन शुध्यति॥१८ कृत्वा मूत्रं पुरीषं वा स्नात्वा भोक्तुमनास्तथा। भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ॥१६ रथ्यां वाऽऽक्रम्य वाऽऽचामेद्वासो विपरिधाय च । कृत्वा मूत्रपुरीषं च लेपगन्धापहं द्विजः॥२० उद्धृतेनाम्भसा शौचं मृदा चैव समाचरेत् । मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ॥२१ एकस्मिन्विशतिहस्ते द्वयोज्ञेयाश्चतुर्दश । तिस्रस्तु मृत्तिका देयाः कृत्वा नखविशोधनम् ।।२२ तिस्रस्तु पादयोर्जेयाः शौचक्रामस्य सर्वदा। शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥२३ त्रिगुणं च वनस्थानां यतीनां तु चतुर्गुणम् । मृत्तिका च विनिर्दिष्टा त्रिपर्वाऽऽपूर्यते यथा ॥२४ इति शाङ्घधर्मशाले षोडशोऽध्यायः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy