________________
१४४२
शङ्खस्मृतिः ।
|| पश्चदशोऽध्यायः ॥
अथ जननमरणाशौचवर्णनम् ।
जनने मरणे चैव सपिण्डानां द्विजोत्तमः । त्र्यहाच्छुद्धिमवाप्नोति योऽग्निवेदसमन्वितः ॥१ सपिण्डतातु पुरुषे सप्तमें विनिवर्तते । नामधारक विप्रस्तु दशाहेन विशुध्यति ॥ २ क्षत्रियो द्वादशाहेन वैश्यः पक्षेण शुध्यति । मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा ॥३ रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुध्यति । अजातदन्तबाले तु सद्यः शौचं विधीयते ॥४
[ पञ्चदशी
अहोरात्रात्तथा शुद्धिर्बाले स्वकृतचूडके । तथैवानुपनीते तु त्र्यहाच्छुध्यन्ति बान्धवाः ॥ ५ अनूढानां तु कन्यायां तथैव शूद्रजन्मनाम् । अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्परम् ॥६ मृत्युं समधिगच्छेच्चेन्मासान्तस्यापि बान्धवाः । शुद्धिं समभिगच्छेयुर्नात्र कार्या विचारणा ॥७ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । तस्य मृतायां नाशचं कदाचिदपि शाम्यति ॥८ हीनवर्णा तु या नारी प्रमादात्प्रसवं व्रजेत् । प्रसवे मरणे तज्जमाशौचं नोपशाम्यति ॥