________________
ऽध्यायः] श्राद्धप्रकरणवर्णनम् ।
१४४१ भोजयित्वा द्विजान्भक्त्या स्वाचान्तान्दत्तदक्षिणान् । अभिवाद्य पुनर्विप्राननुत्रज्य विसर्जयेत् ॥२४ निमन्त्रितस्तु यः श्राद्ध मैथुन सेवते द्विजः । श्राद्धं दत्त्वा च भुत्त्वा च युक्तः स्यान्महतैनसा ॥२५ कालशाकं सशल्कांश्च मांसं वाध्रीणसस्य च । खड्गमांसं तथाऽनन्तं यमः प्रोवाच धर्मवित् ।।२६ यद्ददाति गयाक्षेने प्रभासे पुष्करे तथा । प्रयागे नैमिषारण्ये सर्वमानन्त्यमश्नुते ॥२७ गङ्गायमुनयोस्तीरे पयोष्ण्यामरकण्टके। . नर्मदायां गयातीरे सर्वमानन्त्यमुच्यते ।।२८ वाराणस्यां कुरुक्षेत्रो भृगुतुङ्गे महालये । सप्तवेण्यषि कूपे च तदप्यक्षय्यमुच्यते ॥२६ म्लेच्छदेशे तथा रात्रौ संध्यायां च विशेषतः । न श्राद्धमाचरेत्याज्ञो म्लेच्छदेशे न च व्रजेत् ॥३० हस्तिच्छायासु यहत्तं यद्दत्तं राहुदर्शने। विषुवत्ययने चैव सर्वमानन्त्यमुच्यते ॥३१ प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन वा ॥३२ प्रजां पुष्टिं यशः स्वर्गमारोग्यं च धनं तथा। नृणां श्राद्धः सदा प्रीताः प्रयच्छन्ति पितामहाः ॥३३
इति शाखे धर्मशास्त्रे चतुर्दशोऽध्यायः ।