SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १४४० [ पञ्चदशो शङ्खस्मृतिः । अन्यत्र पुष्पमूलेभ्यः पीठकेभ्यश्च पण्डितः । भोजयेद्विविधान्विप्रान्गन्धमाल्य समुज्ज्वलान् ॥१३ यत्किचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा । अनिवेद्य न भोक्तव्यं पिण्डमूले कदाचन ॥१४ उग्रगन्धान्यगन्धानि चैत्यवृक्षभवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥१५ तोयोद्भवानि देयानि रक्तान्यपि विशेषतः । ऊर्णासूत्रं प्रदातव्यं कार्पासमथवा नवम् ||१६ दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजाम् । घृतेन दीपो दातत्र्य स्तिलतैलेन वा पुनः ॥१७ धूपार्थं गुग्गुलुं दद्याद् घृतयुक्तं मधूत्कटम् । चन्दनं च तथा दद्यात्पिष्ट्रा च कुङ्कुमं शुभम् ॥१८ भूतृणं सुरसं शिपुं पालकं सिन्धुकं तथा । कूष्माण्डालाबुवार्ताककोविदरांश्च वर्जयेत् ॥१६ पिप्पलीं मरिचं चैव तथा वै पिण्डमूलकम् । कृतं च लवणं सर्व बंशाग्र तु विवर्जयेत् ॥ २० राजमाषान्मसूरांश्च कोद्रवान्कोरदूषकान् । लोहितान्वृक्षनिर्यासान् श्राद्धकर्मणि वर्जयेत् ॥ २१ आश्रमामलकीमिक्षं मृद्वीकादधिदाडिमान् । विदार्यश्चैव रम्भाद्या दद्याच्छ्रा प्रयत्नतः ||२२ धानालाजे मधुयुते सक्तून्शर्करया सह । दद्याच्छ्राद्ध प्रयत्नेन शृङ्गाटकविसेतकान् ||२३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy