________________
[नवमो
शङ्खस्मृतिः। जले निमग्न उन्मज्य उपस्पृश्य यथाविधि। . जलस्याऽऽवाहनं कुर्यात्तत्प्रवक्ष्याम्यतः परम् । वीर्थ(जल)स्यावाहनं कुर्यात् तत्प्रवक्ष्याम्यशेषतः ॥२ प्रपद्ये वरुणं देवमम्भसा पतिमूर्जितम्। याचितं देहि मे तीथं सर्वपापापनुत्तये ॥३. तीर्थमावाहयिष्यामि साधविनिषूदनम् । सानिध्यमस्मिन् स्तोये च क्रियता (भजत्व) मदनुग्रहात् ।। रुद्रान् प्रपद्ये वरदान् सर्वानप्सु पदस्तथा । सर्वानप्सु सदश्चैव प्रपये प्रयतः स्थितः ॥५ देवमंशुमदं (देवमप्सुषदं)बहि प्रपद्येऽघनिषूदनम् । आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ॥६ रुद्राश्चाग्निश्च सर्पश्च वरुणस्त्वाप एव च । शमयन्त्वाशु मे पापं माञ्च रक्षन्तु सर्वशः ।।७ इत्येव मुक्ता कर्तव्य स्ततः संमार्जनं जले। आपो हिष्ठेति तिसृभिर्यथावदनुपूर्वशः। हिरण्यवर्णेति (वदेदग्निश्व)तिसृभिर्जगतीति चतसृभिः । शं नो देवीति तथा शं न आप स्तथैव च ॥८ इदमापः प्रवहते (धूतञ्च) तथा मन्त्र मुदीरयेत् । एवं सम्मार्जनं कृत्वा च्छन्दआर्षश्च देवताः ॥६ एवं मन्त्रान्समुचार्य च्छन्दांसि ऋषिदेवताः । अघमर्षणसूक्तश्च प्रपठेत् प्रयतः सदा। छन्योऽनुष्टप् च तस्यैव ऋषिश्चैवाघमर्षणः ॥१०