________________
अध्यायः] आचमनविधिवर्णनम् ।
१४३१ देवता भाववृत्तश्च पापक्षये प्रकीर्तितः ॥११ ततोऽम्भसि निमग्नः स्यात्ति पठेदघमर्षणम। प्रपद्यान्मूर्द्धनि तथा महाव्याहृतिभिर्जलम् ।। यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः। तथाऽघमर्षणं सूक्तं सवपापप्रणाशनम् ॥१३
अनेन विधिना स्नात्वा स्नातवान् धौतवाससा। परिवर्जि(ति)तवासास्तु (तीर्थतीरमुपस्पृशेत)तीर्थनामानि संजपेत् ।१४
उदकस्याप्रदानात्तु स्नानशाटी न पीड़येत् । अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते ॥१५
इति शाङ्खधर्मशास्त्रे नवमोऽध्यायः।
॥ अथ दशमोऽध्यायः ।।
अथाचमनविधिवर्णनम् । अतः परं प्रवक्ष्यामि शुभामाचमनक्रियाम् । कायं कनिष्ठिकामूले तीर्थमुक्तं मनीषिभिः ॥१ अङ्गुष्ठमूले च तथा प्राजापत्यं विचक्षणैः।। अङ्गुल्यग्रे स्मृतं दि[दैव्यं पित्र्यं तर्जेनिमूलकम् [के ॥२ प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाजलं द्विजः । द्विः प्रमृज्य मुखं पश्चात्खान्यद्भिः समुपस्पृशेत् ॥३