SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] क्रियास्नानविधिवर्णनम् । १४२६. तीर्थाभावे तु कसैव्यमुष्णोदकपरोदकैः। . स्नानं तु वह्नितप्तेन तथैव परवारिणा ॥8 शरीरशुद्धिर्विज्ञेया न तु स्नानफलं लभेत् । अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥१० सरःसु देवखातेषु तीर्थेषु च नदीषु च।। स्नानमेव क्रिया तस्मात्स्नानात्पुण्यफलं स्मृतम् ॥११ तीर्थ प्राप्यानुषङ्गेण स्नानं तीर्थ समाचरेत् । स्नान फलमाप्नोति तीर्थयात्राफलं न तु ॥१२ सर्वतीर्थानि पुग्यानि पापघ्नानि सदा नृणाम् । परस्परानपेक्षाणि कथितानि मनीषिभिः ॥१३ सर्वे प्रस्रवणाः पुण्याः सरांसि च शिलोच्चयाः। नद्यः पुण्यास्तथा सर्वा जाह्नवी तु विशेषतः ॥१४ यस्य पादौ च हस्तौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥१५ नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् । यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम्॥१६ इति शाङ्घीये धर्मशालेष्टमोऽध्यायः । ॥ अथ नवमोऽध्यायः ॥ अथ क्रियास्नानविधिवर्णनन् । क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्वकम् । मृद्भिरद्भिश्च कर्तव्यं शौचमादौ यथाविधि ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy