________________
१४२८
शङ्खस्मृतिः ।
एषु सर्वेषु भूतेषु तिष्ठत्यविरलः सदा ।
दृश्यते त्वग्या बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः || ३४ इति शाही धर्मशास्त्रे सप्तमोऽध्यायः ।
॥ अष्टमोऽध्यायः ॥ अथनित्यनैमित्तिका दिनानानां लक्षणवर्णनम् । नित्यं नैमित्तिकं कामं क्रिया मलकर्षणम् । क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥ १ अस्नातः पुनरानहां जप्यामिहवनादिषु । प्रात स्नानं तदर्थं च नित्यस्नानं प्रकीर्तितम् ॥२ चण्डालशवयूपाद्यं स्पृष्ट्रा स्नानं रजस्वलाम् । स्नानानस्तु यः स्नाति स्नानं नैमित्तिकं च तत् ॥३ पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम् । वृद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥४ जप्तुकामः पवित्राणि अर्चिष्यन्देवताः पितृन् । स्नानं समाचरेद्यस्तु क्रियाङ्गं तत्प्रकीर्तितम् ॥५ मलापकर्षणार्थं तु स्नानमभ्यङ्गपूर्वकम् | मलापकर्षणार्थाय प्रवृत्तिस्तस्य नान्यथा ॥ ६ सरित्सु देवखातेषु तीर्थेषु च नदीषु च । क्रियास्नानं समुद्दिष्टं स्नानं तत्र महाक्रिया ॥७ तत्र काम्यं तु कर्तव्यं यथावद्विधिचोदितम् । नित्यं नैमित्तिकं चैव क्रियाङ्ग मलकर्षणम् ॥८
अष्टमो