________________
ऽध्यायः] धारणादीनां लक्षणम् ध्यानयोगनिरूपणच । १४०
शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च । इन्द्रियस्थान विजानीयात् पञ्चव विषयान् बुधः ।।२५ हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैव च । कर्मेन्द्रियाणि पञ्चैव नित्यं (मस्मिन्) सति शरीरके २६ मनो बुद्धिस्तथवाऽऽत्मा व्यक्ताव्यक्तं तथैव च । इन्द्रियेभ्यः पराणीह चत्वारि प्रवराणि च ।। चतुर्विंशत्यथैतानि तत्त्वानि कथितानि च । तथाऽऽत्मानं तद्व्यतीतं पुरुषं पञ्चविंशकम् । .. तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः ।।२८ इदन्तु परमं शुद्ध(गुह्य)मेतदक्षरमुत्तमम् । अशब्दरसमस्पर्शमरूपं गन्धवर्जितम् ।।२६ निदुःखमसुखं शुद्ध तद्विष्णोः परमं पदम् । अजं निरञ्जनं शान्तमव्यक्तं ध्रुवमक्षरम् । अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् । विज्ञानसारथिर्यस्तु मनःप्रग्रहबन्धनः ॥३० सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् । बालाप्रशतशो भागः कल्पितस्तु सहस्रधा ॥३१ तस्यापि शतशो भागाजीवः सूक्ष्म उदाहृतः॥३२ इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिबुद्धरात्मा तथा परः।। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्नं परं किश्चित् सा काष्ठा सा परा गतिः ॥३३ 80