________________
१४२४
शङ्खस्मृतिः ।
पुत्रेषु दारान्निक्षिप्य तया वाऽनुगतो वनम् । अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ॥ २ यदाहारो भवेत्तेन पूजयेत् पितृदेवताः । तेनैव पूजयेन्नित्यमतिथिं समुपागतम् ॥३ ग्रामाद हृत्य चाश्नीयादष्टौ ग्रासान् समाहितः । स्वाध्यायश्च सदा कुर्य्याजटाश्च विभृयात्तथा ॥४ तपसा शोषयेन्नित्यं स्वयञ्चैव कलेवरम् । आर्द्रवासास्तु हेमन्ते ग्रीष्मे पञ्चतपास्तथा ॥५ प्रावृष्याकाशशायी स्यान्नक्काशी च सदा भवेत् । चतुर्थकालिको वास्यात् स्यात्पष्ठकालिक एव वा ॥ ६. कृच्छ्रर्वाऽपि नयेत् कालं ब्रह्मचर्याश्व पालयेत् । एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ॥ ७ इति शाङ्खीये धर्मशास्त्रे षष्ठोऽध्यायः ।
॥ सप्तमोऽध्यायः ॥
अथप्राणायामलक्षणंधारणध्यानयोग निरूपणवर्णनम् । कृत्वेष्टिं विधिवत् पश्चात् सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥१ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवजने । अतीते पादसम्पाते नित्यं भिक्षां यतिश्चरेत् ||२
षष्ठमो