________________
शङ्कस्मृतिः।
पचमोपञ्चयज्ञविधानञ्च गृही नित्यं न हापयेत् । पञ्चयज्ञविधानेन तत्पापं तस्य नश्यति ॥२ देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च । ब्रह्मयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः॥३ होमो देवोवलिभौंतः पित्र्यः पिण्डक्रियास्मृतः । स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोऽतिथिपूजनम् ॥४ वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः। गृहस्थस्य प्रसादेन जवन्त्येते यथाविधि ॥५ गृहस्थ एव यजते गृहस्थस्तप्यते तपः। दाता चैव गृहस्थः स्यात्तस्माच्छृष्ठो गृहाश्रमी ॥६ यथा भर्ता प्रभुः स्त्रीणां वर्णानां ब्राह्मणो यथा ।
अतिथिस्तद्वदेवास्य गृहस्थस्य प्रभुः स्मृतः ॥७ न व्रतेनॊपवासैश्च (न च यज्ञैः पृथग्विधैः) धर्मेण विविधेन च । नारी(राजा)स्वर्गमवाप्नोति प्राप्नोति पति(परिपालनात पूजनात् ।।८
न मानेन न होमेन नैवाग्नि(परिचर्यया तर्पणात् । ब्रह्मचारी दिवं याति स याति गुरुपूजनात् ।। नाग्नि(अति)शुश्रूपया क्षान्त्या स्नानेन विविधेन च । वानप्रस्थो दिवं याति याति भोजनवर्जनात् ॥१० न भैः(दण्डन च मौनेन शून्यागाराश्रयेण च । योगो (यतिः) सिद्धिमवाप्नोति (योगेनाऽऽप्नोत्य नुत्तमाम्)
__यथा मैथुनवर्जनात् ॥११