________________
१४१८ शकस्मृतिः।
[तृतीयोआदिमध्यावसानेषु भवच्छब्दोपलक्षितम् । भैक्षस्य वरणं प्रोक्तं वर्णानामनुपूर्वशः ।।१२
इति शाडीये धर्मशास्त्रे द्वितीयोऽध्यायः।
॥ अथ तृतीयोऽध्यायः ॥
ब्रह्मचर्याद्याचारवर्णनम् । स गुरुर्यः क्रिया कृत्वा वेदमस्मै प्रयच्छति । उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः । आचारममिकायं च संध्योपासनमेव च । मृतकाध्यापको यस्तु उपाध्यायः स उच्यते ॥१ माता पिता गुरुश्चैव पूजनीयाः सदा नृणाम् । कियास्तथाऽफलाः सवो यस्यैतेऽनाहतात्रयः । प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः । कुर्वीत प्रयतोभूत्वा (भत्तया) गुरूणामभिवादनम् ।।२ अनुज्ञातश्व गुरुगा ततोऽध्ययनमाचरेत् । कृत्वा ब्रह्मांजलिं पश्यन गुरोर्वदनमानतः।।३ ब्रह्मावसाने प्रारम्भे प्रणवञ्च प्रकीर्तयेत् । अनध्यायेष्वध्ययनं वर्जयेच्च प्रयत्नतः ॥४ चतुर्दशी पञ्चदशीमष्टमी राहुसूतकम् । उल्कापातं महीकम्पमाशोचं ग्रामविप्लवम् ।।५