SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणादीनां संस्कारवर्णनम् । षष्ठे वा सीमन्तो जाते वै जातकर्म च । अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते । नामधेय का कर्तव्यं वर्णानाश्च समाक्षरम् । माङ्गल्यं ब्राह्मणस्योक्तं क्षत्त्रियस्य बलान्वितम् ॥२ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् । शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥ ३ धनान्तं चैव वैश्यस्य दासान्तं वाग्त्यजन्मनः । चतुर्थे मासि कर्तव्यमादित्यस्य प्रदर्शनम् ॥४ षष्ठेऽन्नप्रासनं मासि चूडा कार्या यथाकुलम् । गर्भाष्टमेऽदे कर्तव्यं ब्राह्मणस्योपनायनम् ॥५ गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः । षोडशाब्दस्तु विप्रस्य द्वाविंशः क्षत्रियस्य तु ॥ ६ विंशतिः सचतुष्का च वैश्यस्य परिकीर्तिता । नाभिभाषेत सावित्रोमत उधं निवर्तयेत् ॥७ विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्याः सर्वधर्मवहिष्कृताः ॥८ मौजीबन्धो द्विजानान्तु क्रमान्मौञ्जी प्रकीर्तिता । मार्गवैयाघ्रवास्तानि कर्माणि ब्रह्मचारिणाम् ॥६ पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः । ऽध्यायः ] १४१० कर्णकेशललाटैस्तु (केशदेशललादस्य ) तुल्याः प्रोक्ताः क्रमेण तु ॥१० अवक्राः सत्वचः सर्वे नाग्निदग्धास्तथैव च । यज्ञो (वस्त्र,पवीतं कर्पासक्षौमोर्णानां यथाक्रमम् ॥११
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy